________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
अष्टम उद्देशकः १३९३ (A)
भाजनविराधना च। तथा केचित् प्रान्ताः पराङ्मखं मुखं कृत्वा तं पथि स्थितं साधुं प्रणुदेयुः, गाथायामेकवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवति ॥ ३५३७ ॥
किञ्चपम्हट्ठमवि अन्नत्था, जइच्छा कोवि पेच्छती । पंथे उवरि पम्हुटुं, सेप्पं गेण्हंति अद्धगा ॥ ३५३८ ॥
पथोऽन्यत्र विस्मरणतः पतितमपि यदृच्छया यदि कथमपि कोऽपि प्रेक्षते, पथि पुनः परिभ्रष्टं क्षिप्रमध्वगा गृह्णन्ति, तस्मात् पथि न विश्रमितव्यम् ॥ ३५३८॥
एवं ठितोवविटे, सविसेसतरा भवंति उ निवण्णे । दोसा निद्दपमायं, गते य उवहिं हरंतऽण्णे ॥ ३५३९ ॥
एवममुना प्रकारेण स्थिते ऊर्ध्वस्थानेनाऽवतिष्ठमाने तथा उपविष्टे दोषा वक्तव्याः, निवण्णे शयाने सविशेषतरा दोषा भवन्ति। तथाहि-पूर्वोक्तास्तावत् तथैव द्रष्टव्याः, अन्यच्च | शयाने कथमपि निद्राप्रमादं गते उपधिमन्ये पथिकादयो हरन्ति, तस्मात् पथि न |
गाथा ३५३४-३५४१
पथि | विश्रामणादौ
दोषाः
१३९३ (A)
For Private and Personal Use Only