________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् अष्टम उद्देशकः १३९२ (B)
सति भाजनविराधना, आदिशब्दादनागाढादिपरितापना भवति शरीरविराधना च॥ ३५३५ ॥ सम्प्रति 'धूली उक्खणण उवहिणो विणासो इति' व्याख्यानयति
सरक्खधूली चेयण्णे पत्थिवाणं विणासणा । अचित्तरेणुमइलम्मि, दोसा धुव्वणऽधोव्वणे ॥ ३५३६ ॥ दारं ३-४।
सह रजसा श्लक्ष्णधूलिरूपेण वर्त्तते इति सरजस्का सा चासौ धूलिश्च, तस्याश्चैतन्योऽस्यां | चेतनायामित्यर्थः, पादनिक्षेपेण उत्खनने शरीरादिसंस्पर्शत: पार्थिवानां पृथिवीकायानां विनाशनं * भवेत्। अथ सो अचित्तो रेणुस्तर्हि तेनाऽचित्तेन रेणुना मलिने उपधौ यदि प्रक्षालयति तथापि ४ दोषाः प्राणविराधनापत्तेर्बकुशत्वसम्भवाच्च, अप्रक्षालनेऽपि दोषाः प्रवचनहीलनाद्यापत्तेः ॥ ३५३६ ॥
गाथा अन्यच्च
३५३४-३५४१ वेगाविद्धा तुरंगादी, सहसा दुक्खनिग्गहा ।
| विश्रामणादौ परंमुहं मुहं किच्चा, पंता ठाणं पणोल्लए ॥ ३५३७॥
दोषाः वेगाविद्धा वेगेनाऽऽगच्छन्तस्तुरङ्गादयः, आदिशब्दाबलीवर्दादिपरिग्रहः, सहसा दुःखेन ||१३९२ (B) निगृह्यन्ते निवार्यन्ते इति दुःखनिग्रहाः, निवारयितुमशक्या इति भावः । ततः शरीरविराधना
पथि
For Private and Personal Use Only