________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३९२ (A)
www.kobatirth.org
तथा चाह
जाति अप्पणी सारं, एए समणवादिणो ।
सारमेएसि लोगोऽयं, अप्पणो न वियाणई ॥ ३५३४॥ दारं १ । ये आत्मानं श्रमणमिति वदन्ति ते आत्मनः सारं परमार्थतत्त्वं जानन्ति यथा अस्मभ्यमेते गरीयांस इति, यस्त्वेतेषामयं लोकः स सारमर्थतत्त्वमात्मनो न विजानाति अविदितपरमार्थत्वात्॥ ३५३४॥
गतं मिथ्यात्वद्वारमधुना अन्यपथद्वारमाह
अण्णपण वयंते, काया सो चेव वा भवे पंथो ।
अचियत्त संखडादी, भाणाईविराहणा चेव ॥ ३५३५ ॥ दारं २।
Acharya Shri Kailassagarsuri Gyanmandir
तं साधुं पथि स्थितं दृष्ट्वा पान्था अन्येन पथा व्रजन्ति तथा च सति काया हरितकायादयो विराध्यन्ते, तथा स एव [ वा ] भवति पन्थास्ततो महान् प्रवर्त्तनादोषः । तथा पथि स्थितं दृष्ट्वा कस्यापि अचियत्तम् अप्रीतिरुपजायते ततः स ब्रूते- 'अहो मुण्डः पन्थानं रुद्धवा स्थितः ' । तत् श्रुत्वा कोऽप्यसहनोऽसंखडं कलहं कुर्यात्, आदिशब्दात् युद्धमपि तथा च
For Private and Personal Use Only
गाथा
| ३५३४-३५४१
पथि विश्रामणादौ दोषाः
१३९२ (A)