________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
.
अष्टम उद्देशकः
१३९० (B)|
पंथे उवस्सए वा, पासवणुच्चारमाइयंते वा । पम्हुसती एएहिं, तम्हा मोत्तूणिमे ठाणे ॥ ३५३०॥
ततः उपकरणं पथि व्रजतः कथमपि पतेत् , ग्रामानुग्रामं वा गच्छन् यत्रोपाश्रये उषितस्तत्र विस्मरणतः पतितं भवेत्, विश्राम्यतो वा क्वचित् पतितं स्यात्, उच्चारं प्रश्रवणं वा कुर्वतः स्यात् पतितम्, आचमतो वा विस्मृतम्, एतैः कारणैर्विस्मरणतः पतनसम्भवः,ततो येषु स्थानेषु विश्राम्यत उच्चारं प्रश्रवणं वा कुर्वतो दोषा भवन्ति तानीमानि स्थानानि वर्जयेत् ॥ ३५३०॥
गाथा तान्येवाह
३५२८-३५३३
७ मार्गे पंथे वीसमण-निवेसणादि सो मासो होति लहुओ उ ।
विश्रामणादौ आगंतर संठाणे, लहगा आणादिगा दोसा ॥ ३५३१॥
दोषाः पथि यदि विश्राम्यति निविशति वा, आदिशब्दादूर्ध्वस्थितो वा तिष्ठति, सुप्तो वा, ४ १३९० (B) उच्चारं प्रश्रवणं वा व्युत्सृजति, तदा सर्वत्र असामाचारीनिष्पन्न प्रायश्चित्तं मासलघु । यदि
For Private and Personal Use Only