________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
|
व्यवहार
सूत्रम्
//
अष्टम
उद्देशकः १३९१ (A)
| पुनरागन्तृणां स्थाने सभादौ विश्रामणादि करोति तदा सर्वत्र प्रत्येकं प्रत्येकं चत्वारो लघुकाः, आज्ञादयश्च दोषाः ।। ३५३१॥
सम्प्रति पथि विश्रामणादौ दोषानाहमिच्छत्त१ अन्नपंथे२, धूली उक्खिणण३ उवहिणो विणासो४ । ते चेव य सविसेसा, संकादि विविंचमाणे वी ॥ ३५३२ ॥ दारगाहा।
स साधुः पथि विश्राम्यति धिग्जातीयाश्चान्ये जातिमदावलिप्तास्तेन पथा समागता भवेयुः, ततः स साधुश्चिन्तयेद्-मा मन्निमित्तमेते उद्वर्त्तमाना हरितकायादिविराधनां कार्युरिति स साधुः पथ उत्थाय अन्यत्र तिष्ठेत् तत्र च इमे दोषा 'जानन्त्येते श्रमणवादिनः आत्मनः सारमतोऽयमस्मान् दृष्ट्वा उद्वृत्त' इति। तथा साधुना धिग्जातीयानां पथो दत्त तत एतेषामपि गुरवो धिग्जातीयाः प्रधानाश्च । एतच्चाऽभिनवधर्माणः श्रुत्वा दृष्ट्वा वा मिथ्यात्वं गच्छेयः, ये च मिथ्यादृष्टयस्ते गाढतरं मिथ्यात्वं प्रतिपद्येरन्। तथा अन्नपंथेत्ति तं साधुं पथि स्थितं दृष्ट्वा पथिका उद्धृत्य व्रजन्ति, ते चोद्वर्त्तमाना हरितकायादीनां विराधनां कुर्वन्ति । तथा केचित् तं पथि स्थितं दृष्ट्वा ब्रुवते-'अहो! निर्लज्जः श्रमणः पन्थानं रुड़वा स्थितः'। तच्च श्रुत्वा कोऽप्यसहनः कलहं कुर्यात्, ततो युद्धे समापतिते भाजनभेदोऽनागाढादिपरितापना च स्यात् । तथा पादनिक्षेपेण
गाथा ३५२८-३५३३
मार्गे * विश्रामणादौ
दोषाः
१३९१ (A)
For Private and Personal Use Only