________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः १३८९ (A)
ऽधिकरणप्रवृत्तेः, तैः पुन: पार्श्वस्थादिभिः संविग्नानां विहारिणामेतदुपकरणमिति ज्ञात्वा यत् पतितं गृहीतं तदानीतं पुनर्गृह्यते ॥ ३५२३ ॥
अत्रैव द्वितीयपदमाहबिइयपदे न गेण्हेज्जा, विविंचियदुगुंछिए असंविग्गे । तुच्छमपयोयणं वा, अगेण्हता होयऽपच्छित्ती ॥ ३५२४ ॥ द्वितीयपदे अपवादपदे न गृह्णीयात् पतितं विविञ्चितं परिष्ठापितमिति कृत्वा जुगुप्सितमशुचिस्थानपतितम् असंविग्नानां वा एतदुपकरणमिति ज्ञात्वा, तथा तुच्छं मुखपोतिकादि तदपि कुथितत्वादिना कारणेन अप्रयोजनमगृह्णतो(न्)भवत्यप्रायश्चित्ती॥ ३५२४ ॥
साम्प्रतमेनामेव गाथां विवृणोतिअंतो विसगलजुण्णं, विविचियं तं च दट्ट नो गेण्हे । असुइट्ठाणे वि चुतं, बहुधा वालादिछिन्नं वा ॥ ३५२५॥
अन्तामादीनां मध्ये विसकलं खण्डाखण्डीकृतं जीर्णं विवेचितं परिष्ठापितमिति ज्ञातव्यं | तच्च दृष्ट्वा न गृह्णीयात्, तथा अशुचिस्थानेपि च्युतं बहुधा वा व्यालादिभिः श्वप्रभृतिभिः
गाथा ३५२१-३५२७ विस्मृतोपधिग्रहणे विधिः
१३८९ (A)
For Private and Personal Use Only