________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
X
1X
श्री व्यवहार
सूत्रम्
अष्टम उद्देशकः
१३८४ (B)
H
तथा अनुलोमेन वचसा अनुलोमनं कर्त्तव्यम्, अथ तथापि न ददाति तर्हि 'सजातिः सजातिमनुकूलयतीति' न्यायमङ्गीकृत्य ये तस्य स्वजना यानि च मित्राणि तैरनुलोमयितव्यः । तथाप्यतिष्ठति अभियोगो मन्त्रादिना कर्त्तव्यः, निमित्तं वा प्रयोक्तव्यं, बन्धनं वा सर्वैरपि साधुभिस्तस्य कर्त्तव्यं, ततः प्रभाते व्यवहारः कर्त्तव्यः ॥ ३५१२ ॥
मा णे छिवसु भाणाइ, मा भिंदिस्ससि णेऽजया। दुहतो मा य बोलेंति, थेरा वारेंति संजए ॥ ३५१३ ॥
यदि साधूनां भाण्डकं बहिर्नेतुं व्यवसितस्तदा स भण्यते- 'मा नोऽस्माकं भाजनानि | स्पृश हे! अयत! मा वा नोऽस्माकं भाजनानि भिन्द्धि', यदि पुनस्तं संयता निर्द्धर्मादिवचोभिराक्रोशन्ति तदा स्थविरा आचार्याः संयतान् वारयन्ति-'मा आर्या! द्विधातो बोलं कार्युः, एकां तावत् वसतिं प्रतिगृह्णीथ द्वितीयं परुषाणि भाषध्वे तस्मात् मा एवं भणत यत् करोति तत् क्षमध्वमिति' ॥ ३५१३॥
.
.
.
.
.
सूत्र १३-१४ | गाथा |३५११-३५१५ | परिभ्रष्टोप| करणेविधिः
१३८४ (B)
For Private and Personal Use Only