________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः
१३८४ (A)
_ 'अहो सज्जन! बिले नागा इव वयं युष्मदुपाश्रये उषित्वा प्रातर्गच्छाम' एवं याचितो यदि ददाति ततः सुन्दरमथ न ददाति तदाऽनुलोमेन वचसानुलोमयितव्यः, धर्मकथा तस्य कथ्यते, निमित्तादिकं वा प्रयुज्यते, तथाऽप्यददति परुषमपि वक्तव्यं, कथम्? इत्याहनिरस्तानां निष्काशितानामस्माकं ये स्तेन-मसक-श्वापदादिभिरुपधिशरीरमरणदोषा जायेरन् मा ते तवाप्युपरि पतेयुरिति ॥ ३५१० ॥
एतदेव सविस्तरमभिधित्सुराहजइ देइ सुंदरं तू, अह उ वएज्जाहि नीह मज्झ गिहा । अन्नत्थ वसहि मग्गहा, तहियं अणुसट्ठिमादीणि ॥ ३५११॥
सूत्र १३-१४ यदि 'बिले व वसिउं नागा' इत्यादिभणनानन्तरं वसतिं ददाति ततः सुन्दरम्, अथ ||११.३०१५ वदेत्- 'मम गृहान्निर्गच्छताऽन्यत्र वसतिं याचध्वमिति', तदा तत्रानुशिष्ट्यादीनि क्रियन्ते, 4 परिभ्रष्टोप
| करणेविधिः अनुशिष्टिरनुशासनं क्रियते, आदिशब्दाद्धर्मकथा कथ्यते इति परिग्रहः ॥ ३५११ ॥ अणुलोमणं सजाती, सजातिमेवेति तह वि उ अठंते ।
१३८४ (A) अभियोगनिमित्तं वा, बंधणगोसे य ववहारो ॥ ३५१२ ॥
गाथा
.
For Private and Personal Use Only