________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वयो वर्णं च गृहस्वामिनो [ज्ञात्वा] वल्गु शोभनं वदन्तीत्येवंशीला वल्गुवादिनो वसतिस्वामिनं वक्ष्यमाणं वदन्ति, इतरे च सभाण्डाः सोपकरणाः सन्तो निरन्तरं वसतिमास्पन्दन्ते व्याप्नुवन्ति ॥३५०८॥
श्री व्यवहार
सूत्रम्
अष्टम उद्देशकः १३८३ (B)
कथं वदन्ति? इत्यत आहअब्भासत्थं गंतूण, पुच्छए दूरपत्तिमा जयणा । तद्दिसमेंतपडिच्छण, पत्ते य कहेंति सब्भावं ॥ ३५०९ ॥
यदि अभ्यासस्थो निकटवर्ती भवति तदा गत्वा वसतिस्वामिनं पृच्छति, अथ दूरप्राप्तस्तत्रेयं यतना-तां दिशमागच्छतः प्रतीक्षणं कर्त्तव्यं, प्राप्ते च तस्मिन् सद्भावं कथयन्ति, यथाबहिः स्तेनादिभयात् युष्माकमुपाश्रये वयं स्थिताः' ॥ ३५०९ ।।
तथेदं वदन्तिबिले व वसिउं नागा, पातो गच्छामो सज्जणा । निरत्थाणं बहिं दोसा, जाते मा होज तुज्झवी ॥ ३५१०॥
गाथा ३५०४-३५१०
कारणे पूर्वमग्रहः पाश्चाद् अनुज्ञापना
१३८३ (B)
For Private and Personal Use Only