________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम्
अष्टम उद्देशकः १३७७ (B)
xxx
गवेषयेत्, असति बहिः संस्तारकस्याऽलभ्यमानत्वेनाभावे तमेव सागारिकसत्कमन्यसत्कं वा ४ शय्यासंस्तारकमनुज्ञापयेत्, यथा- 'बहिर्याचितः शय्यासंस्तारकः परं न लब्धस्ततो यूयमनुजानीताऽऽत्मीयं संस्तारकं येन बहिर्नयामः' इति । यदि नानुज्ञापयति तदा तृणमयसंस्तारकविषये प्रायश्चित्तं मासलघु, फलकमयसंस्तारकविषये चतुर्लघु ॥ ३४९३ ॥
अत्रैवापवादमधिकृत्य विकल्पानाहअहवा अवस्सघेत्तव्वयम्मि दव्वम्मि किं भवे पढमं? । नयणं समणुण्णा विवच्चओ वा जहुत्तातो ॥ ३४९४ ॥
अधवेत्यपवादमधिकृत्य प्रकारान्तरोपदर्शने । यदि नियमात् तत्संस्तारकद्रव्यं बहिर्नेतव्यं, न शक्यते तद्विना मोक्षसाधनं कर्तुमिति, तर्हि प्रथमतः किं कर्त्तव्यं नयनं समनुज्ञा वा? आचार्य आह- अवश्यं नयनलक्षणे अपवादे प्राप्ते पूर्वं नयनं कर्त्तव्यं पश्चादनुज्ञापना, यदि वा पूर्वमनुज्ञापना कर्त्तव्या पश्चान्नयनं विपर्ययो वा यथोक्तात् । किमुक्तं भवति? नापि पूर्वमनुज्ञापयेत् नापि नीत्वा पश्चादनुज्ञापयेत्। तत्र यः पूर्वमनुज्ञापनं पश्चान्नयनमित्येकान्तशुद्धो भङ्गः, एष च
सूत्र ७
गाथा ३४८९-३४९४
शय्यासंस्तारकग्रहणे पुनः अनुज्ञापना
१३७७ (B)
For Private and Personal Use Only