________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम
उद्देशकः १३७८ (A)|
भङ्गस्तदा द्रष्टव्यो यदा ये दोषा मासकल्पे वर्णितास्ते अन्तः सन्ति बहिर्न विद्यन्ते, बहिश्च तृणफलकादीन्यनुज्ञाप्यमानानि न लभ्यन्ते तदा अभ्यन्तराणि येषां सत्कानि ताननुज्ञाप्य नीयन्ते। अथान्तः अशिवादीनि कारणानि निर्गमनमुहूर्त्तश्चातिप्रत्यासन्नो न च बहिस्तृणफलकादीनि लभ्यन्ते तदा पूर्वं नयनं पश्चादनुज्ञापनं, यथा- बहिर्याचितानि तृणफलकादीनि परं न लब्धानि ततो युष्मदीयान्येव तत्र नीतानीत्यस्माकं तान्यनुजानीत । यदा तु कारणवशतो बहिरवश्य गन्तव्यम् , बहिश्च तृण-फलकादीनि न लभ्यन्ते न च तानि विना साधवः संस्तरीतुं शक्नुवन्ति, न च येषामभ्यन्तराणि तृणफलकादीनि ते अनुजानन्तः सम्भाव्यन्ते न वाऽननुज्ञाप्य तेषु बहिर्नीतेषु तेषामभिभवस्तदा न पूर्वमनुज्ञापनं नापि नीत्वा पश्चादनुज्ञापनमिति । तदेवं पूर्णे मासकल्पे पूर्णे वर्षाकल्पे चायं विधिरुक्तः, एवमपूर्णेऽपि द्रष्टव्यम् ॥ ३४९४ ॥
| सूत्र ८-१२
गाथा |३४९५-३४९८
द्वितीयाव| ग्रहानुज्ञापना
विधिः
तथा चाह
एवमेव अपुण्णम्मि वि, वसहीवाघाए अन्नसंकमणे । गंतव्वुवासयाऽसति, संथारो सुत्तनिद्देसो ॥ ३४९५ ॥
१३७८ (A)
For Private and Personal Use Only