________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः १०८० (A)
एतदेवाहवेलं सुत्तत्थाणं, न भंजए दंडियादिकहणं वा । पच्छण्णोऽमयकोसे, पुच्छा पुण साहणा विणए ॥ २५३२ ॥
यथा बहिर्न गन्तव्यमेवं ग्रामादीनामन्तरेऽपि सूत्रार्थानामपरिहानिनिमित्तं, दण्डिकादीनामा- ४ गतानां धर्मकथाया अविघ्ननिमित्तं च संज्ञाव्युत्सृजनाय न गन्तव्यं, किन्तूपाश्रयस्याऽन्तव्युत्सृजनीयम्, येन सूत्रार्थवेलां न भनक्ति। नापि दण्डिका[ दी ]नामागतानां धर्मकथनं | विघ्नयति। पूर्वमेव चोपयोगः कर्त्तव्यः किं मम संज्ञा भवेन वा ?। तत्र यदि शङ्का तदा
गाथा कृताऽऽवश्यकेन सूत्रपौरुष्या[मर्थ] पौरुष्यां च सूत्रार्थप्रदानायोपवेष्टव्यम्। तत्रापि न तावदासितव्यं
२५३२-२५३६ यावदवश्यमुत्थेयं भवति, किन्त्वग्रे, अत्रार्थे निदर्शनम्-एक आचार्य आवश्यकं शोधयित्वा
लोकोत्तर
विनयस्य तिष्ठति, दण्डिकश्च धर्मश्रवणार्थमागतः, आचार्येण धर्मकथा प्रारब्धा। स च धर्मकथाक्षिप्तो
श्रेष्ठत्वम् राजकुमारो धर्मं शृण्वन्नभीक्ष्णमभीक्ष्णं कायिकीव्युत्सृजनायोत्तिष्ठति, अथ आचार्यस्य च
४१०८० (A) प्रच्छन्नोऽमृतकोशः समर्प्यते प्रच्छन्नं कायिकीमात्रकं साधवः समर्पयन्ति, तत्र कायिकी व्युत्सृजति। ततो विनये लोकोत्तरिके बलवति राज्ञः पृच्छा आचार्यस्य कथनम्॥ २५३२॥
For Private And Personal Use Only