________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
षष्ठ उद्देशकः १०७९ (B)/
व्यवहरतां व्यवहारस्तीरं गतः, परं नाद्यापि समाप्तिमुपयाति तस्मिंश्चासमाप्ते व्यवहारे सति राजकुमारः संज्ञावान् जातस्तत उत्थाय संज्ञाभूमिं गतः स च यावन्नायाति तावदर्थिनः प्रत्यर्थिनश्च क्षीरोदकसंयोगादिवदेकीभूताः, ततो राजकुमारस्य प्रत्यागतस्य ते ब्रुवते 'वयं परस्परं सुस्थीभूताः।' एवं सदा कुर्वन् समस्तादपि लक्षादिप्रमाणात् दण्डाऽऽयपदात् परिभ्रष्टः । ततः कोशस्य हानिर्जाताः, तां च ज्ञात्वा परचमूः परबलमागतं, तया च राज्यस्य प्रेरणमेषोऽप्रशस्ते दृष्टान्तः ।
प्रशस्ते पुनर्दृष्टान्तः स्वयं भावनीयः। स चायं- प्रथमत एवाऽऽवश्यकमुच्चारादेः कृत्वा आस्थाने समुपविशति, उपविष्टो यदि संज्ञावान् भवति ततः प्रच्छन्ने प्रदेशे व्यत्सृजति। एवं तस्य कुर्वतः प्रभूतं प्रभूततरं दण्डाऽऽयपदं जातम्। तथा च सति कोशस्य महती वृद्धिस्ततः परबलस्य प्रेरणं राज्यान्तरसङ्ग्रहः । एष दृष्टान्तोऽयमर्थोपनयः- य आचार्यो बहि: संज्ञाभूमि व्रजति तस्य प्रागुक्तप्रकारेण सूत्रार्थपरिहाणिः, तत्परिहाण्या गच्छस्यापि परिहाणिः शिष्याणां प्रातीच्छिकानां चान्यत्र गणान्तरे गमनात्। यस्तु तत्रैवोपाश्रये व्युत्सृजति तस्य न किञ्चिदपि परिहीयते इति सर्वं सुस्थम् ॥ २५३१ ।।
गाथा २५२७-२५३१
आचार्यस्य वसतेर्बहिर्गमने दोषाः
१०७९ (B)
For Private And Personal Use Only