________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ
उद्देशकः १०७६ (A)
.
बहिगमणे चउगुरुगा, आणादी वाणिए य मिच्छत्तं१ । पडियरणमणाभोगेर, खरिमुह मरुए तिरिक्खादी ॥ २५२२॥
आचार्यो यदि विचारभूमिं बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुका आज्ञादयश्च दोषाः। तथा वाणिए य मिच्छत्तमिति वणिजि अभ्युत्थानं पूर्वं कृतवति पश्चादकुर्वति केषाञ्चित् मिथ्यात्वमुपजायत ॥ इयमत्र भावना-आचार्यं संज्ञाभूमिं व्रजन्तं ततः प्रत्यागच्छन्तं च दृष्ट्वा वणिजो निजनिजापणे स्थिता अभ्युत्थानं कृतवन्तः, तं च तथा वणिजां बहुमानेनाभ्युत्थानं दृष्ट्वा केचिदन्ये मन्यन्ते गुणवानेष आचार्यो येन वणिज एवमेतमभ्युत्तिष्ठन्ति तस्मादस्माकमपि पूज्य इति तेऽपि पूजयन्ति, यदा त्वाचार्यः कदाचित् द्वौ वारौ संज्ञाभूमि व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यं, ते चालस्यं मन्यमाना अभ्युत्थातव्यं भविष्यतीति कृत्वा आचार्यं दृष्ट्वाऽन्यतो मुखं कुर्वन्ति, तांश्च तथा कुर्वतो दृष्ट्वा अन्ये चिन्तयन्ति नूनमेष प्रमादी जातो ज्ञाताऽपि गुणवानपि यदीदृशः पतति तर्हि न किञ्चिदिति ते मिथ्यात्वं गच्छन्ति । तथा आचार्यं लोकेन पूज्यमानं दृष्ट्वा मरुके ब्राह्मणस्य मारणबुद्ध्या प्रतिचरणं भवति, ततः संज्ञाभूमिं गतं विजने प्रदेशे मारयेत् । तथा खरमुखीं नपुंसकी दासी वा प्रापयित्वा उडाहं कुर्यात्। अनाभोगेन वा वनगहने प्रविष्टे तिर्यगादौ च गर्दभादौ
गाथा
२५२२-२५२६ आचार्यस्य
बहिः स्थण्डिलभूमौ गमने दोषा:
१०७६ (A)
For Private And Personal Use Only