________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः
१०७६ (B)
कुलटादौ च प्रविष्टायामात्मपरोभयसमुत्था दोषाः। एष गाथासक्षेपार्थः ॥ २५२२ ॥
सम्प्रति "वाणियए मिच्छत्तं" इत्येतद्विभावयिषुराहसुयवं तम्मि परिवारवं च वणियंतरावणुढाणेण । दुट्ठाणनिग्गमम्मि य, हाणी य परम्मुहाऽवन्नो ॥२५२३॥
संज्ञाभूमिं व्रजति ततः प्रत्यागच्छति वा तस्मिन् आचार्य श्रृतवानेष परिवारवांश्चेति मन्यमाना अन्तरा निजनिजाऽऽपणेषु स्थिता वणिजोऽभ्युत्थानं कृतवन्तः, तेषां चोत्थाने लोकस्य च भूयान् बहुमान आसीत्, कदाचिदाचार्यो द्वौ वारौ संज्ञाभूमिं व्रजेत् ततो द्विस्थाननिर्गमने चतुरो वारान् गच्छति प्रत्यागच्छति चोत्थातव्यं, ततस्ते आलस्यं मन्यमाना अभ्युत्थानस्य हानिं कुर्वन्ति ते च हानिमभ्युत्थानस्य चिकीर्षवोऽभ्युत्थातव्यं भविष्यतीति कृत्वा तमाचार्य दृष्ट्वा परम्मुखा भवन्ति, अन्यतो मुखं कुर्वन्तीति भावः । अथवा अवर्णः स्यात्, तथाहिद्वौ वारौ संज्ञाभूमिं व्रजन्तमाचार्यं दृष्ट्वा ते वदन्ति 'नूनमेष आचार्यो द्वौ त्रीन् वारान् समुद्दिशति तेन द्वौ वारौ संज्ञाभूमिं याति' ॥२५३३ ॥
गणवं तु जतो वणिया, पयंतऽण्णे वि सन्नया तम्मि । १. परमुहा-सं. ॥
गाथा २५२२-२५२६ आचार्यस्य
बहिः स्थण्डिलभूमौ गमने दोषाः
18
१०७६ (B)
For Private And Personal Use Only