________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः १०७५ (B)
܀܀܀܀
***
www. kobatirth.org
यदुक्तमनेकैः कारणैः बहुवारं निर्गमनं, तत्र कारणान्याह - दशविधवैयावृत्त्यनिमित्तं स्वग्रामे बहिः परग्रामेऽनेक-वारमनेकधा व्यायामोऽभवत्, तथा शीतोष्णसहा भिक्षवो न च तेषां भिक्षूणां वाचनादिका वाचनादिविषया हानि: गुरोः पुनस्तेऽनेकबहुनिर्गमनादयो न सन्ति । ततस्तृष्णाद्यध्यासितुमसहिष्णव आचार्या वसतेर्बहिः सागारिके तिष्ठति लघुवसतेरन्तः प्रविशन्ति । ततः खेदज्ञेन कुशलेन पादान् प्रमार्जापयन्ति ॥२५१९ ॥२५२० ॥
इदानीं भिक्षोरपि द्वितीयपदमाह
धुवकम्मियं च नाउं, कज्जेणऽण्णेण वा अतिपतिं । अव्वक्खित्ताउत्तं, न उदिक्खति बाहि भिक्खू वि ॥२५२१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वसतेर्बहिः सागारिकं ध्रुवकर्मिकं वा लोहकारादिकमन्येन वा कार्येणान्यमपि सागारिकमनतिपातिनमगच्छन्तं तथा अव्याक्षिप्तमायुक्तं च ज्ञात्वा भिक्षुरपि बहिर्नोदीक्षते न प्रतीक्षते किन्तु वसतिं प्रविश्यात्मीये अवकाशे यतनयाऽऽत्मनः पादौ प्रमार्जयेत् ॥ २५२१ ॥ प्रथमोऽतिशयो गतः, सम्प्रति द्वितीयं विभावयिषुरिदमाह
For Private And Personal Use Only
गाथा
| २५१५-२५२१ कारणे
* वसतेरन्तः पादप्रमार्जना
१०७५ (B)