________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देश :
१०७३ (B)
www. kobatirth.org
आदिशब्दादागाढपरितापनादिपरिग्रहस्तथा वसतिं प्रविष्टो अतीवतृष्णोष्णाभिभूतः खद्धस्य प्रचुरस्य पानीयस्याऽऽदानं ग्रहणं कुर्यात् प्रचुरं पानीयं पिबेदित्यर्थः । ततो भक्ताजीर्णतया ग्लानो भवेत्, तस्मिंश्च ग्लाने सूत्रार्थपरिहानिर्विराधना च तस्याचार्यस्य स्यात्, ग्लानत्वेनाचार्यो म्रियेतेति भावः, अथवा सूत्रार्थपरिहाण्या अजानतां साधूनां ज्ञानादिविराधना स्यात्, सूत्रार्थाभावतोऽजानन्तः साधवो ज्ञानादिविराधनां कुर्युरिति भावः १ ॥ २५१३॥
अधुना 'वुड्ढा वा' इति व्याख्यानार्थमाह
वुड्डा सहु सेहादी दारं २, खमगो वा पारणम्मि भुक्ख । अच्छति पडिच्छमाणो, न भुंजऽणालोइयमदिट्टं ॥ २५१४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वृद्धा वयोवृद्धा असहाः प्रथमद्वितीयपरीषहान् सोढुमसमर्थाः, तथा शैक्षकाः आदिशब्दात् ग्लानाश्चाचार्यं प्रतीक्षमाणास्तिष्ठन्ति ते च तथा तिष्ठन्तस्तृडादिभिः पीडिता मूर्च्छाद्याप्नुवन्ति ग्लानस्य च गाढतरं ग्लानत्वमुपजायते, यदि पुनरागतमात्र एव वसतौ प्रि ततो यथायोगं वृद्धादीनामकालहीनं सम्पाद्यते इति न कश्चिद्दोषः २ । अधुना "विणए १. रागता एव सं. ॥
For Private And Personal Use Only
गाथा
| २५१०-२५१४
आचार्यस्य बहिः प्रतीक्षणे दोषाः
१०७३ (B)