________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः
१०७४ (B)
ग्लानस्यौषधादिकं साधवो गुरुणा विना न ददति, आदिशब्दात् भोजनादिपरिग्रहः। यदि वा ऊनमधिकं वा दद्युस्तस्य च ग्लानस्याचार्य प्रतीक्षमाणस्य वेलातिगच्छति ॥ २५१६ ॥
सम्प्रति "साधू सण्णी''[गा.२५१२] इति व्याख्यानयतिपाहुणगा गंतुमणा, वंदिय जो तेसि ऊण्हसंतावो । पारणए पडिच्छंते, सड्ढे वा अंतरायं तु ॥२५१७॥ दारं ४ ।।
प्राघुर्णकाः केचित् साधव आगताः, ते गन्तुमनसः ते यद्याचार्यमवन्दित्वा अनापृच्छ्य वा गच्छन्ति ततोऽविनयादयो दोषाः, ततः प्रतीक्षमाणास्तिष्ठन्ति, आचार्यश्च चिरेण वसतिं प्रविष्टस्तावद दिवस आसमन्तात तप्तोऽभवत ततो गरुं वन्दित्वा व्रजतां य उष्णसन्तापस्तेषां स आचार्यनिमित्तकः, तथा श्राद्धे अष्टम्यादिषु पर्वसु कृताऽभक्ते पारणके आचार्य प्रतीक्षमाणे अन्तरायं कृतं भवति ४॥ २५१७॥
गाथा २५१५-२५२१
कारणे वसतेरन्तः पादप्रमार्जना
उपसंहारमाह
१०७४ (B)
१. पारणग-ला. पाठा.। पाणगे-ला.। पारग प* मु. पु. प्रे. ॥
For Private And Personal Use Only