________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहारसूत्रम् षष्ठ उद्देशकः
१०७३ (A)
द्वितीयपरीषहाभ्यां पीडिता मूर्छाद्याप्नुवन्ति, तथा ग्लानाः आदिशब्दात् क्षपकादिपरिग्रह ते विनयेन प्रतीक्षमाणा भोजनमकुर्वन्त औषधादिकं च गुरुणा विना अलभमाना गाढतरं ग्लानत्वाद्याप्नुवन्ति। तथा साधवः केचित् प्राघूर्णका गन्तुमनसस्तथा संज्ञिनः श्रावका | अष्टम्यादिषु कृताऽभक्ताः पारणके भिक्षायामदत्तायामपारयन्त आचार्य प्रतीक्षमाणास्तिष्ठन्ति । तत्र साधूनां दिवसो गरीयान् चटति तत्र चोष्णादिपरितापनादोषाः, संज्ञिनां चान्तरायमित्येष गाथासक्षेपार्थः ॥२५१२ ।। साम्प्रतमेनामेव विवरीषुः प्रथमतः "तण्हुण्हादिअभाविए" इत्येतद् व्याख्यानयति
गाथा तण्हुण्हऽभावियस्स, पडिक्खमाणस्स मुच्छमादीया ।
२५१०-२५१४
| आचार्यस्य खद्धादियण गिलाणे, सुत्तत्थ विराहणा चेव ॥ २५१३॥ दार १।।
बहिः प्रतीक्षणे आचार्य: स्वरूपत उष्णेनाभावितः क्वचित् कदाचित् प्रयोजनवशतो बहिर्निर्गमनात्। . ततः कुलादिकार्येषु निर्गतस्तृष्णाभिभूतो वसतिमागतोऽपि यदि सागारिकमपगच्छन्तं यावत् प्रतीक्षते ततः प्रतीक्षमाणस्य तृष्णया उष्णेन च तापितस्य मूर्छादयो भवन्ति,
दोषाः
४१०७३ (A)
For Private And Personal Use Only