________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः १०७२ (B)
प्रत्यागतो यदि वसतेर्बहिः सागारिकस्ततस्तावद्वहिस्तिष्ठतु यावच्चलः सागारिको व्युत्क्रान्तो भवति। ततो बहिरेव पादान् प्रस्फोट्य वसतेरन्तः प्रविशत, एवं च सति क्षपकादिदोषाः परित्यक्ता भवन्ति। आचार्य आह-उच्यते उत्तरं भण्यते 'हे चोदक! गुरोः आचार्यस्य वसतेबहिस्तिष्ठत इमे वक्ष्यमाणा बहवो दोषाः ॥ २५११॥
तानेवाहतण्हुण्हादिअभाविय१, वुड्डा वा अच्छमाण मुच्छादी२ । विणए गिलाणमादी३, साहू सन्नी पडिच्छंती४ ॥२५१२॥ दारगाहा।
गाथा कुलादिकार्येण निर्गते आचार्ये उष्णेनाभाविते तृष्णा जायते ततस्तृष्णाभिभूतो वसतिमागतो : २५१०-२५१४
आचार्यस्य यदि बहिः वसते: प्रतीक्षते यावत् सागारिकोऽपगच्छति तावत् तृष्णया उष्णेन, :
बहिः प्रतीक्षणे आदिशब्दादनागाढागाढपरितापनापरिग्रहः, पीडिते मूर्छा जायते, आदिशब्दात् वसतिं प्रविष्टः | सन् प्रचुरं पानीयमापिबेत् ततो भक्ताऽजीर्णतया ग्लानत्वं भवेदित्यादिपरिग्रहः । तथा वृद्धा | उपलक्षणमेतत् बालशैक्षाऽसहादयश्चाचार्ये तिष्ठति प्रतीक्षते, ते च प्रतीक्षमाणाः प्रथम
दोषाः
For Private And Personal Use Only