________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ
उद्देशकः १०७१ (A)
विपुलाए अपरिभोगे, अप्पणउवासए व चिट्ठस्स ।। एमेव भिक्खुयस्स वि, नवरि बाहिं चिरयरे तु ॥२५०७॥
यदि विपुला वसतिस्तत्र तस्यां विपुलायां वसतावपरिभोगे अवकाशे आचार्येण स्थित्वा पादाः प्रस्फोटयितव्याः । अथ सङ्कटा वसतिस्तर्हि आचार्यस्य आत्मीयो यो वेण्टिकाद्यवकाशस्तत्र ऐर्यापथिकी प्रतिक्रम्योपविष्टस्य पादाः प्रमार्जनीयाः । ते च कुशलेन साधुना तथा प्रमार्जनीया यथा अन्ये साधवो धूल्या न भ्रियन्ते यथा आचार्यस्योक्तमेवं भिक्षोरपि द्रष्टव्यं, नवरं यदि बहिर्वसतेः सागारिकस्तिष्ठति ततश्चिरतरमपि कालं प्रतीक्षेत यावच्चलः सागारिको व्यतिक्रामति, यदि पुनर्भिक्षुः वसतेर्बहिः सागारिकाऽभावेऽपि पादावप्रस्फोट्य वसतेरन्तः प्रविशति तदाऽस्य प्रायश्चित्तं मासलघु ॥२५०७॥
निग्गिझ पमजाही, अभणंतस्सेव मासियं गुरुणो । पायरए खमगादी, चोयग कजाऽगते दोसा ॥ २५०८॥
यदि बहिः सागारिक इति कृत्वा वसतेरन्तः पादाः प्रस्फोटयितव्याः। ततः सङ्कटायां वसतौ पादान् प्रमार्जयितुमुपस्थितं साधुमाचार्यो ब्रूते-आर्य निगृह्य पादान् प्रमार्जय यथा |
गाथा २५०६-२५०९ वसतिप्रवेशे पादस्फोटनप्रमार्जनविधिः
१०७१ (A)
For Private And Personal Use Only