________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः १०७० (B)
केनापि साधुना अभिग्रहो गृहीतो वर्त्तते, यथा- 'मया आचार्यस्य बहिर्निर्गतस्य प्रत्यागतस्य च पादाः प्रस्फोटयितव्या' इति, स यद्यस्ति तर्हि तेन प्रमार्जनायोपस्थातव्यं, तत्र चाऽऽचार्येणात्मीयं रजोहरणं तस्य समर्पयितव्यं पादप्रमार्जनाय, ततः स आभिग्रहिकस्ते-. नाऽऽचार्यसत्केन रजोहरणेन आचार्यस्य पादान् प्रमार्जयति अथवा यदन्यदौर्णिकं पादप्रोञ्छनकमन्येन साधुना पादप्रमार्जनेनापरिभुक्तं तेनाचार्यस्य पादान् प्रस्फोटयति। अथाभिग्रहिको न विद्यते ततः आभिग्रहिकस्यासति अभावे अन्यतरस्तस्यैवाचार्यस्य रजोहरणेन और्णिकेन वा पादप्रोञ्छनकेन[ नान्येभुक्तेन पादान् पुंसयति, यदि पुनरव्याप्तोऽपि निष्कारणमाचार्यस्य पादान् न प्र मार्जयति तदा मासलघु। अथाऽऽत्मीयेन रजोहरणेन पादप्रोञ्छ नेन वाऽन्यपादप्रमार्जनातः परिभुक्तेन प्रमार्जयति तदाऽपि मासलघु। यदि बहिर्वसतेः सागारिकस्तिष्ठतीत्याचार्यस्य पादा न प्रस्फोटितास्तर्हि वसतेरन्तः प्रविष्टस्य प्रस्फोटनीयाः ॥२५०६॥
गाथा २५०६-२५०९ वसतिप्रवेशे पादस्फोटनप्रमार्जनविधिः
तत्रायं विधिः
१०७० (B)
१. “नान्यभु पु. प्रे. ॥
For Private And Personal Use Only