________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् घष्ठ उद्देशकः १०७० (A)
च चल: चलो नाम मुहूर्त्तमात्रेण गन्ता तस्मिन् सागारिके चले तिष्ठति मुहूर्त्तकम् अल्पार्थे कप्रत्ययोऽल्पं मुहूर्त, किमुक्तं भवति सप्त तालमात्रम् सप्तपदातिक्रमणमात्रं वा कालं स्थविरा तिष्ठन्ति ॥२५०४॥
थिरवक्खित्ते सागारिए अणुवउत्ते पमजिउं पविसे । निव्विक्खित्तुवउत्ते, अंतो उ पमज्जणा ताहे ॥२५०५॥
स्थिरो नाम यस्तत्रावस्थायी ध्रुवकर्मिकः, व्याक्षिप्तः कर्मणि कर्त्तव्ये व्याकुलस्तद्विपरीतोऽव्याक्षिप्तः । उपयुक्त आचार्यान् दृष्ट्या निरीक्षमाणस्तद्विपरीतोऽनुपयुक्तः। तत्र स्थिरे व्याक्षिप्तेऽनुपयुक्ते सागारिके विद्यमाने बहिः पादान् प्रमाद्यं प्रविशेत्, स्थिरे निर्व्याक्षिप्ते उपयुक्ते बहि: सागारिके सति वसतेरन्तः प्रमार्जना पादानाम् ॥ २५०५ ॥
अथाचार्यस्य पादाः किं स्वयमेवाचार्येण प्रस्फोटयितव्याः उताऽन्येन साधुना? तत आहआभिग्गहियस्स असती, तस्सेव रयोहरेण अण्णयरो ।
पाउंछणुण्णिएण व, फुस्संति य अणण्णभुत्तेण ॥२५०६॥ १. ला. । अणुवभोत्तेणं-पु. प्रे.। अण्णभोत्तूणं-पु. प्रे. पाठा. ॥
गाथा २५०६-२५०९ वसतिप्रवेशे पादस्फोटनप्रमार्जनविधिः
१०७० (A)
For Private And Personal Use Only