________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
www.kobatirth.org
मासो लघुको मासः प्रायश्चित्तम्, तस्माद्बहिः पादान् प्रस्फोट्यान्तः प्रवेष्टव्यं तच्च प्रस्फोटनं विधिना कर्त्तव्यम् । स चायं विधि:- [ पूर्वं ] प्रत्युपेक्षते ततः प्रमार्जयति अविधिः पुनरयंन प्रत्युप्रेक्षते न प्रमार्जयति १ न प्रत्युपेक्षते प्रमार्जयति २, प्रत्युपेक्षते न प्रमार्जयति ३ । प्रत्युपेक्षते प्रमार्जयति च ४ । अत्राऽऽद्येषु त्रिषु भङ्गेषु प्रत्येकं प्रायश्चित्तं मासिकं, चतुर्थे भङ्गे भङ्गाश्चत्वारस्तद्यथा दुष्प्रत्युपेक्षते दुष्प्रमार्जयति १ दुष्प्रत्युपेक्षते सुप्रमार्जयति २ सुप्रत्युपेक्षते १०६९ (B) दुष्प्रमार्जयति ३ सुप्रत्युपेक्षते सुप्रमार्जयति ४ । अत्र चतुर्थो भङ्गः शुद्धः शेषेषु त्रिषु भङ्गेषु प्रत्येकं प्रायश्चित्तं पञ्च रात्रिन्दिवम् । एतदेवाह - अप्रत्युपेक्षे उपलक्षणमेतत् अप्रमार्जने च, तथा दुष्प्रेक्षायामत्राप्युपलक्षणव्याख्यानमिति दुष्प्रमार्जनायां च पूर्वोक्ताः कल्पाध्ययनोक्ताः सप्तभङ्गाः तत्र चोक्तप्रायश्चित्तविधिः ॥२५०३ ॥
***
बहि- अंतविवच्चासो, पणगं सागारिए असंतम्मि । सागारियम्मि उ चले, अच्छंति मुहुत्तगं थेरा ॥२५०४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि सागारिके असति अविद्यमाने बहिरन्तर्विपर्यासो भवति बहिरप्रस्फोट्यान्तः प्रस्फोटयतीत्यर्थः, तदा गणिनः प्रायश्चित्तं पञ्चकम् । अथ सागारिको बहिस्तिष्ठति सोऽपि
For Private And Personal Use Only
गाथा २५०१-२५०४ पादप्र
स्फोटनप्रमार्जनविधिः
(१०६९ (B)