________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
४.
सूत्रम् षष्ठ
उद्देशकः
१०६९ (A)
बहिरन्तश्च यदि विपर्यासो बहिरस्फोट्य अन्तः प्रस्फोटनरूपस्तदा पञ्चकं पञ्चरात्रिन्दिवं प्रायश्चित्तमथ बहिः सागारिको वर्त्तते ततस्तिष्ठति मुहूर्तं व्याख्यानतो विशेषप्रतिपत्तिरन्तर्मुहूर्त्तमित्यर्थः । अथ एतावता कालेन सागारिको नापयाति तर्हि द्वितीयपदम् अपवादपदमाश्रयते, बहिः पादाऽस्फोटनेऽप्यन्तर्वसतेः प्रविश्यते तत्र विस्तीर्णे उपाश्रये अपरिभोगे प्रदेशे आचार्यपादाः प्रस्फोटयितव्याः, निरुद्धायां सङ्कटायां वसतौ यत्राचार्यसत्कवेण्टिकाद्यवकाशस्तत्र यतनया यथा न कस्यापि धूलिर्लगति इत्येवंरूपया प्रस्फोटयितव्याः । एष द्वारगाथासक्षेपार्थः ॥ २५०२॥
साम्प्रतमेनामेव विवरीषुरिदमाहबाहिं अपमजते, पणगं गणिणो उ सेसए मासो । अप्पडिलेहदुपेहा पुव्वुत्ता सत्तभंगा उ ॥२५०३॥
आचार्यः कुलादिकार्येण निर्गतः प्रत्यागतः उत्सर्गेण तावद्वसतेर्बहिरेव पादान् प्रस्फोटयति प्रत्युपेक्षते प्रमार्जयति चेत्यर्थः। यदि पुनः निष्कारणं बहिः पादान् न प्रस्फोटयति तदा बहिरप्रमार्जने गणिन आचार्यस्य प्रायश्चित्तं पञ्चकं, शेषके साधौ बहिःपादानप्रमार्जयति
गाथा २५०१-२५०४
पादप्रस्फोटनप्रमार्जनविधिः
*
१०६९ (A)
For Private And Personal Use Only