________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ उद्देशकः १०६८ (B)
एवमुक्तं, यावता पुनः स नियमादाचार्यः एव, तस्य गणे गणमध्ये पञ्च अतिशेषा अतिशया: प्रज्ञप्तास्तद्यथा-आचार्योपाध्यायान् उपाश्रयस्यान्तर्मध्ये पादान् निगृह्य निगृह्य तथा पादा यतनया प्रस्फोटयितव्या यथा धूलिः कस्यापि क्षपकादेर्न लगति एवं शिक्षयित्वा प्रस्फोटयतः (यन् प्रमार्जयन्) प्रस्फोटको नातिक्रामति एष एकोऽतिशयः। तथा आचार्योपाध्यायान् उपाश्रयस्यान्तरुच्चारं प्रश्रवणं वा विगिंचयतो (न्) व्युत्सृजतो विशोधक(यन्) उच्चारादिपरिष्ठापको नातिक्रामति एष द्वितीयः। तथा आचार्योपाध्यायः प्रभुः अतो वैयावृत्त्यमिच्छया कारयेत् न बलाभियोगतः। "आणा बलाभिओगो निग्गंथाणं न कप्पए काउं" [ ] इतिवचनात्, एष तृतीयः । तथा आचार्योपाध्याय उपाश्रयस्यान्तर्मध्ये एकरात्रं वा द्विरात्रं वा वसन् नातिक्रामति नातिचारभाग् भवति एष चतुर्थः । आचार्योपाध्याय उपाश्रयाद्वहिरेकरात्रं वा द्विरात्रं वा वसन् नातिक्रामति। एष सूत्रसंक्षेपार्थः ॥ अधुना भाष्यविस्तर:
बहिअंतविवच्चासो, पणगं सागारि चिट्ठइ मुहुत्तं । बिइयपयं वित्थिण्णे, निरुद्धवसहीए जयणाए ॥२५०२॥ दारगाहा।
गाथा २५०१-२५०४
पादप्रस्फोटनप्रमार्जनविधिः
१०६८ (B)
For Private And Personal Use Only