________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सदभावो नाम सन्ति साधवः परं न धर्मकथादिषु कुशलाः, असदभावो मूलत एव न सन्ति साधवः। एवं सदभावेनाऽसदभावेन वा येऽन्यगणसत्का द्वितीयका नीतास्तेषामियमाभाव्ये मार्गणा भवति ॥२४९१ ॥
श्री व्यवहारसूत्रम् षष्ठ
उद्देशकः १०६५ (B)
तामेवाह
जं सो उवसामेई, तन्निस्साए य आगया जे उ । ते सव्वे आयरितो, लभते पव्वायगो तस्स ॥२४९२॥
स ज्ञातविधिमागतः सन् यमुपशमयति प्रव्रज्यापरिणामं ग्राहयति ये च तन्निश्रया तस्य ज्ञातविधिमागतस्य निश्रया, स्वजनोऽयमस्माकमिति बुद्ध्या तत्समीपमागताः, तान् सर्वान् यस्तस्य ज्ञातविधिं द्रष्टुमागतस्य साधोर्यः प्रव्राजकः आचार्यः स लभते ॥ २४९२ ॥
जे पुण अहभावेणं, धम्मकही सुंदरोत्ति वा सोउं ।
उवसामिया य तेहिं, तेसिं चिय ते हवंती उ ॥२४९३॥ १. पव्वावेगो-सं. ॥
गाथा २४८५-२४९३ ज्ञातविधौ ग्लानचिकित्सार्थ गमनम्
१०६५ (B)
For Private And Personal Use Only