________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०६५ (A)
यदि निजकानां सम्बन्धी न कश्चित् ग्लानो नापि निजको वैद्योऽन्यस्य चिकित्सां करोति तदा गहिणि गृहस्थे अग्लानेऽन्यत्र पूर्वोक्तया यतनया या पूर्वं कल्पाध्ययने ग्लाने सूत्रे चिकित्सायतना उक्ता तया चिकित्सां कुर्वन्ति। तथाऽन्यत्रौषधानां लाभो नास्ति । तत आह अन्यत्र पुनरौषधानामलाभे ज्ञातविधिमतरन्तं ग्लानं नयति। तदेवं ग्लानविधिरप्युक्तः ॥२४८९ ॥
सम्प्रति लाभचिन्तायामाभवनविधिमाहअंहुणा तु लाभचिंता, तत्थ गयाणं इमा भवति तेसिं । जइ सव्वेगायरियस्स होंति तो मग्गणा नत्थि ॥२४९०॥
अधुना तेषां तत्र गतानां ज्ञातविधौ गतानामियं लाभचिन्ता भवति यदि ते धर्मकथ्यादयः सर्वेऽप्येकस्याचार्यस्य भवन्ति तर्हि नास्ति मार्गणा सर्वमाचार्यस्याभवतीति भावः ॥२४९० ॥
संतासंतसतीए, अह अण्णगणा बिइज्जगा नीया ।
तत्थ ईमा मग्गणा उ, आभव्वे होइ नायव्वा ॥२४९१॥ १. अहुणा लाभे- पु. प्रे. ॥ २. लाभे- सं. ॥ ३. इम मग्गणा ऊ -पु. प्रे. ॥
गाथा २४८५-२४९३ ज्ञातविधी ग्लानचिकित्सार्थ गमनम्
१०६५ (A)
For Private And Personal Use Only