________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
षष्ठ उद्देशकः १०६२ (B)
गृह्णाति वरवृषभः, द्रव्यप्रमाणं च जानीयात् कियत कटम्बमन्यद्वा भोजकं कियद्वा राद्धमित्येवं यत् यावत् प्रायोग्यं प्रतिभासते [तत्] तावत् गृह्णीयात् ॥२४७९ ।।
सम्प्रत्येतदेव विशेषतरमाहदव्वपमाणं गणणा, खारियफोडिय तहेव अद्धा य । संविग्ग एगठाणा, अणेगसाहूसु पन्नरस ॥२४८०॥
द्रव्यप्रमाणं नाम द्रव्याणां गणना, यथा- एतावन्तोऽत्रौदनभेदाः, एतावन्ति च शाकविधानानि, इयन्तश्च खाद्यविशेषाः एतावन्ति च द्राक्षापानकादीनि पानकानि, तथा क्षारितानि नाम यानि लवणखरण्टि तानि शालनकानि, आस्तानानीत्यर्थः । फोडितं जीरकहिङ्ग वासितम्, एतत् सर्वं ज्ञातव्यम्। तथा अद्धा कालो भिक्षायां ज्ञातव्योऽन्यथा अवष्वष्कणादयो दोषाः स्युः। तथा संविग्ना एकस्थाना एकसङ्घाटात्मकाः प्रविशन्ति ततः कल्पते, अनेकसाधुषु अनेकेषु साधुसङ्घाट के षु प्रविशत्सु न कल्पते यतस्तत्र नियमादाधाकर्मरहिता उद्देशिकादयः पञ्चदश दोषाः ॥ २४८० ॥
गाथा २४७८-२४८४
ज्ञातविधौ भिक्षाग्रहण
विधिः
.x.
१०६२ (B)
१. “पमाण' सं.२ ला.॥ २. 'अथाणा' इति भाषायाम् ॥
For Private And Personal Use Only