________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः
१०६२ (A)
यत् तत्र समीहितं पाकाय ढौकितम्, एतौ द्वावप्यादेशौ प्रमाणं न भवतस्तस्मादिदं व्याख्यानं यत् तत्र गृहस्थानां पूर्वप्रवृत्तमुपस्क्रियमाणं तत् पूर्वायुक्तमिति ॥ २४७७ ॥ ___ अथ कस्मादितरदादेशद्वयं न प्रमाणमत आह
पुव्वारुहिए य समीहिए य किं छुब्भई न खलु अण्णं? । तम्हा खलु जं उचियं, तं तु पमाणं न इतरं तु ॥२४७८॥
पूर्वं चुल्ल्यामारोपिते समीहिते वा किं न क्षिप्यते खल्वन्यत् ? क्षिप्यते इति भावः। तस्मात् खलु यदुचितं व्याख्यानं तत् प्रमाणं नेतरत् परकीयमादेशद्वयम् ॥२४७८ ॥ ।
गाथा
०२४७८-२४८४ बालगपुच्छादीहि य, नाउं आयरमणायरेहिं च ।
ज्ञातविधौ जं जोग्गं तं गेण्हइ, दव्वपमाणं च जं तत्थ ॥२४७९॥
| भिक्षाग्रहण
विधिः बालकपृच्छादिभिः, आदिशब्दात् बालकोल्लापादिभिश्च पिण्डनियुक्तिप्रसिद्धस्तथा : आदरानादराभ्यां च योग्यमयोग्यं ज्ञात्वा यत् तत्र योग्यं श्रमणप्रायोग्यं प्रतिभाति तत् ||१०६२ (A) १.बालकाला सं ॥
For Private And Personal Use Only