________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
उद्देशकः
१०६३ (A)
܀܀܀܀
www. kobatirth.org
एतदेव विवरीषुः प्रथमतो द्रव्यप्रमाणमाह
सत्तविहमोयणो खलु, साली-वीही य कोद्दव-जवे य । गोहुम-रालग - आरण्ण- कूर - खज्जा यऽणेगविहा ॥२४८१ ॥
सप्तविधः, मकारोऽलाक्षणिकः, ओदनः कूरः, तद्यथा - शालिः कलमशाल्यादिकूरः, व्रीहिः सामान्यतन्दुलौदनः, कोद्रवकूरो यवकूरो गोधूमकूरो रालककूरः अकृष्टपच्योऽरण्यव्रीहिः कूरश्च खाद्यानि चानेकविधानि ॥ २४८१ ॥
सागविहाणा य तहा, खारियमादीणि वंजणाई च । खंडादिपाणगाणि य, नाउं तेसिं तु परिमाणं ॥२४८२ ॥
किमित्याह
Acharya Shri Kailassagarsuri Gyanmandir
शाकविधानानि प्राजनकानि क्षारितादीनि, आदिशब्दात् स्फोटितपरिग्रहः व्यञ्जनानि तथा खण्डादिपानकानि आदिशब्दात् द्राक्षादिपरिग्रहः । तेषामोदनादीनां परिमाणं ज्ञात्वा
॥२४८२ ॥
For Private And Personal Use Only
܀܀܀
गाथा
२४७८- २४८४
ज्ञातविधौ भिक्षाग्रहणविधि:
१०६३ (A)