________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१३३२ (B)
चेइय सावग पव्वइउकाम अतरंत-बालवुड्डा य । चत्ता अजंगमा वि य, अभत्ति तित्थस्स परिहाणी ॥ ३३४८॥
अन्यच्च चैत्यानि तेन परित्यक्तानि, श्रावका ये च प्रव्रजितुकामाः,तथा अतरन्तो ग्लाना बाला वृद्धा अजङ्गमाश्च ते सर्वेऽपि त्यक्ताः अभक्तिस्तीर्थकराणां कृता आज्ञाखण्डनात् तीर्थस्य च परिहानिरापादिता। तथाहि-ये तत्र विषये प्रव्रजितुकामास्ते न प्रव्रजिष्यन्ति, श्रावका अपि सम्यक्त्वमणुव्रतानि च गृह्णन्तो न ग्रहीष्यन्ति। ततो भवति तीर्थस्य व्यवच्छेदः ॥ ३३४८॥ यद्येवं तर्हि तत्रैव तिष्ठन्तु । तत्राप्याह
गाथा अच्छंताण वि गुरुगा, अभत्तितित्थस्स हाणि जा वुत्ता ।
३३४६-३३५२
नूतनराज्ञि भणमाण भणावेता, अच्छंति अणिच्छ वच्चंति ॥ ३३४९॥
अवग्रहादि
याचना तत्र तिष्ठतामपि तेषां प्रायश्चित्तं चत्वारो गुरुका मासाः, देशान्तरे भव्यपौण्डरीकप्रतिबोधनलाभतो भ्रष्टत्वात्, तथा तीर्थकराणामभक्तिस्तिष्ठद्भिः कृता तदाज्ञाखण्डनात्, तीर्थस्य ||१३३२ (B) हानिरापादिता स्वयमेव तेन प्रान्तेन राज्ञोक्ता स्त्रीपुरुषा न दीक्षितव्या इति, यद्येवं तर्हि किं
For Private And Personal Use Only