________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३२७ (A)
www.kobatirth.org
अध्वनि यद् वक्तव्यं तत् सर्वं पूर्वं कल्पाध्ययने भणितमिति इह पुनः सूत्रेऽध्वानं व्रजता सागारिकमार्गणा शय्यातरमार्गणा क्रियते । तथा एकेन परिगृहीते वृक्षादौ सति शेषे सागारिके भजना, यदि संस्तरन्ति तर्हि यावद्भिस्तद् गृहीतं वृक्षादि तावतः शय्यातरान् करोति असंस्तरणे एकं कमपि शय्यातरमिति भावार्थः ॥ ३३३० ॥
सम्प्रति पूर्वार्द्धव्याख्यानार्थमाह
दिदि जस्स उवल्लियंती, भंडी वहंते व पडालियं वा । सागारिए होति स एग एव, रीढागएसु तु जहिं वसंति ॥ ३३३१॥
Acharya Shri Kailassagarsuri Gyanmandir
दिने दिने यस्य भण्डीं गन्त्रीं वहन्तीमुपलीयन्ते आश्रयन्ति साधवो यदि वा पडालिकाम् पडालिका नाम यत्र मध्याह्ने सार्थिकास्तिष्ठन्ति, यत्र वा वसन्ति तत्र वस्त्रादिमयं कुवलयनं कुर्वन्ति, तां वा यस्य दिने दिने उपलीयन्ते तदा स एवैकः सागारिकः शय्यातरो भवति, रीढागतेषु तु अवज्ञया यत्र तत्र गतेषु तु साधुषु यत्र रात्रौ वसन्ति तद्दिवसं शय्यातरः। इयमत्र भावना यस्य न नियमेन भण्डीं वा पडालिकां वा प्रतिदिनमुपलीयन्ते किन्तु यदृच्छया कस्मिन् दिने कस्यापि तदा यां यां रात्रिं यस्य यस्य भण्ड्यादिकमुपलीयन्ते तस्मिन् दिने स शय्यातरः ॥ ३३३१ ॥
For Private And Personal Use Only
सूत्र २४ गाथा
| ३३२७-३३३३ पथि अवग्रहानु ज्ञापना
| १३२७ (A)