________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् | सप्तम
उद्देशकः १३२७ (B)
वीसमंता वि छायाए, जे तहिं पढमं ठिया । चिटुंति पुच्छिउं ते वि, पंथिए किमु जहिं वसे ॥ ३३३२॥
विश्राम्यन्तोऽपि छायायां ये तत्र पथिकाः प्रथमं स्थितास्तिष्ठन्ति तानपि पृष्ट्वा तत्र तिष्ठेयुर्नान्यथा। किं पुनर्यत्र वसेयुः। तत्र सुतरां ते अनुज्ञातव्यास्ततो भवन्ति ते शय्यातरा: ॥ ३३३२॥
सम्प्रति ‘एगेण परिग्गहिए सागारियसेसए भयणा' इति व्याख्यानयन्नाहवसंति वा जहिं रत्ति, एगाणेगपरिग्गहे । तत्तिए उ तरे कुज्जा, ठावंतेगमसंथरे ॥ ३३३३॥
यत्र वृक्षस्याधस्तादन्यत्र वा एकस्य वा परिग्रहे अनेकस्य वा पथिकसङ्घातस्य परिग्रहे साधवो रात्रौ वसन्ति तर्हि सर्वानपि तान् शय्यातरान् कुर्युः। अथ न संस्तरन्ति तदा तन्मध्ये एकं शय्यातरं स्थापयन्ति, शेषान् निर्विशन्ते । एषा शेषे सागारिके भजना ॥ ३३३३ ।।
सूत्र २४
गाथा ३३२७-३३३३
पथि अवग्रहानुज्ञापना
X
४१३२७ (B)
१. उपभुञ्जते - इत्यर्थ ॥
For Private And Personal Use Only