SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३२१ (A) ** www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अविशोधिकोटिकृतां वा तदा तत्रापि स्थातव्यम्, न पुनस्तत्रैवास्माभिः स्थातव्यमित्याग्रहपरतया तस्य प्रत्यनीकत्वमुत्पादनीयम् । स हि प्रत्यनीकीकृतः सन् साधूनामन्यस्य वसतिदायकस्य वा प्रतिकूलमाचरेत् । अत्र चोदको जल्पति-यत्र तिष्ठन्ति साधवस्तत्र कर्मादय आधाकर्मादयो दोषाः । आदिशब्दात् मिश्रक्रीतादिदोषपरिग्रहः ॥ ३३११ ॥ अत्र सूरिराह भाइ णिताण तर्हि, बहिया दोसा उ बहुतरा होंति । वासासु हरियपाणा, संजमे आयाए कंटादी ॥ ३३१२ ॥ * भण्यते अत्रोत्तरं दीयते - ऋतुबद्धे काले निर्गच्छतां तत्र [ यदि ] बहिर्बहुतरा दोषा अशिवाद्युपद्रवलक्षणा भवन्ति वर्षाकाले निर्गच्छतां संयमविराधना आत्मविराधना च । तत्र यत् हरितकायोपमर्दनं द्वीन्द्रियादिप्राणाक्रमणं वा सा संयमे संयमस्य विराधना, कण्टकादिभिरात्मनो विराधना । तदेवं छिन्ने काले तिष्ठतां विधिरुक्तः । अथ कालच्छेदो न कृतोऽथ च वर्षाकालो वर्त्तते, अथवा ऋतुबद्धे अपि काले बहिरशिवादि आगाढं कारणं तदा For Private And Personal Use Only गाथा | ३३०८-३३१३ वक्रयिकस्य निष्काशने सामाचारी १३२१ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy