________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३२१ (B)
www. kobatirth.org
अन्यस्यां वसतौ गन्तव्यम्, न पुनः शय्यातरं प्रति किमपि वक्तव्यम् । अथान्या शुद्धा वसतिर्न प्राप्यते तदा विशोधिकोटिदूषितायां स्थातव्यं, तस्या अप्यलाभे अविशोधिकोटिदूषितायामपि स्थातव्यमिति ॥ ३३१२॥
सम्प्रति सागारिकवक्रयिकयोः शय्यातरत्वचिन्तां कुर्वन्नाह
सो चेव य होइ तरो, तेसिं ठाणं तु मोत्तु जइ दिन्नं । अह पुण सव्वं दिन्नं, 'तो देंतो वक्कई उतरो ॥ ३३१३॥
Acharya Shri Kailassagarsuri Gyanmandir
शालागृहस्य वा अपद्वारिकाया वा अर्द्ध त्रिभागो वा वक्रयेण दत्तः, शेषं संयतानां दत्तम् यथा 'अत्र यूयं तिष्ठतेति' । तत्र च साधवः सर्वेऽपि मान्ति तदा स एव पूर्वस्वामी शय्यातरो भवति । अथ पुनस्तेन पूर्वस्वामिना सर्वमपि शालादि भाटकेन प्रदत्तं तदा निर्गच्छतः साधून् दृष्ट्वा यदि वक्रयी ब्रूते 'मा निर्गच्छत यूयमहं युष्माकमवकाशं दास्यामि' तर्हि सोऽवकाशं ददानो वक्रयी [ शय्यातरः ], न सोऽशय्यातरः ॥ ३३१३॥
१. तो णीणह वक्कई - ला. ॥
For Private And Personal Use Only
܀܀܀܀
गाथा
| ३३०८-३३१३ वक्रयिकस्य
सामाचारी
१३२१ (B)