________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम उद्देशकः
राजकुले गत्वा व्यवहारः क्रियते। कथमित्याह-चतुर्मासं दत्त्वा एषोऽस्मान्निष्काशयति। तत्र च राजपुरुषैः "दत्त्वा दानमनीश्वरो भवतीति' न्यायमनुसरद्भिः स पश्चात्कृतः ॥ ३३०९ ॥
पच्छाकडो भणिज्जा, अच्छउ भंडं इहं निवायम्मि । अहयं करेमि अन्नं, तुब्भ अहवा वि तेसिं तु ॥ ३३१०॥
स उक्तप्रकारेण राजकुले पश्चात्कृतः सन् ब्रूयात्-इह यत्र यूयं तिष्ठथ, तत्र च निवाते भाण्डं क्रयाणकं तिष्ठतु, अन्यथा [वक्रयिकः] कोपिष्यति, युष्माकं पुनरन्यां वसतिं करोमि। अथवा तेषां क्रयाणकानां योग्यमन्यत स्थानं करोमि'॥ ३३१० ॥
१३२० (B)
गाथा
असती अण्णाए ऊ, ताहे उवेहा न पच्चणीयत्तं । ठायंति जत्थ जपंति, चोदग कम्मादि तहिं दोसा ।। ३३११॥
३३०८-३३१३ वक्रयिकस्य निष्काशने सामाचारी
१३२० (B)
एवमुक्ते यद्यन्या वसतिः प्राप्यते तदा तत्र गन्तव्यमथाऽन्या वसतिर्नास्ति तदा अन्यस्या वसतेरभावे उपेक्षा कर्तव्या। किमुक्तं भवति? यद्यन्यां वसतिं क्रीत्वा ददाति
For Private And Personal Use Only