________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः
१३२० (A)
अन्नं व देज वसहिं, सुद्धमसुद्धं व तत्थ ठायंति । असती परुसाविजइ, न नीमो दाऊण को तं सि? ॥ ३३०८॥
अन्यां वा वसतिमन्योऽनुकम्पया दद्यात् किंविशिष्टाम् ? इत्याह-शुद्धामशुद्धां वा, शुद्धां विशुद्ध्यविशुद्धिकोटिरहिताम्, अशुद्धां विशुद्ध्यविशुद्धिकोटिदूषितां वा तत्र तिष्ठन्ति। अथ स तामन्यां वा वसतिं न ददाति नापि कोप्यन्यो भाटकं शुद्धामशुद्धां वा वसतिम्, तदा असति एकस्याप्युक्तरूपस्य प्रकारस्याऽभावे स परुष्यति परुषीक्रियते। कथम्? इत्याहत्वं छिन्नकालां वसतिं दत्त्वा सम्प्रत्यपूर्ण एव काले अस्मान्निष्काशयसि [परं] न निर्गच्छामः, कस्त्वं वसतिं दत्त्वा साम्प्रतमसि? "दत्त्वा दानमनीश्वर" इति वचनात्। अथ किञ्चिद्वक्तव्यं तर्हि राजकुले गच्छामः । एवं परुषितो यदि तिष्ठति, ततः सुन्दरमथ न तिष्ठति तदा राजकुले गन्तव्यम् ॥ ३३०८॥
तथा चाहरायकुले ववहारो, चाउम्मासं तु दाउं निच्छुभती । पच्छाकडो य तहियं, दाऊणमणीसरो होति ॥ ३३०९॥
गाथा ३३०८-३३१३ वक्रयिकस्य निष्काशने सामाचारी
१३२० (A)
For Private And Personal Use Only