________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १३१९ (B)
अशिवाऽवमौदर्यादिकमादिशब्दात् म्लेच्छ-परचक्रादिभयपरिग्रहः । बहिः कारणजातं भवेत् तत एतैः कारणैः ऋतुबद्धेऽपि काले पूर्वमनुशिष्टयानुलोमनं क्रियते ॥ ३३०५ ॥
कथं क्रियते? इत्याहसई जंपंति रायाणो, सई जंपंति धम्मिया । सइ जंपंति देवा वी, तं पि ताव सई वद ॥ ३३०६॥
सकृजल्पन्ति राजानः, सकृत् जल्पन्ति धार्मिकाः, सकृजल्पन्ति देवा अपि, त्वमपि तावत् सकृद् वदसि । ततः स्वयमुक्त्वा कथमकस्मादस्मानिष्काशयसि? ॥ ३३०६॥
अणुलोमिए समाणे, तं वा अन्नं वसहि उ देजाहि । अन्नो वऽणुकंपाए देजाही वक्यं तस्स ॥ ३३०७॥ एवमुक्तेन प्रकारेणाऽनुलोमिते सति तामन्यां वा यदि वसतिं दद्यात् यदि वा | अन्योऽनुकम्पया तस्य शय्यातरस्य वक्रय भाटकं दद्यात् ॥ ३३०७ ॥
गाथा ३३०१-३३०७
कारणे वक्रयशालादौ | वसने विधिः
१३१९ (B)
१. वजइव - मु. । वजउ उ - सं ॥
For Private And Personal Use Only