________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
X.
सूत्रम्
सप्तम उद्देशकः
१३१९ (A)
गरीयान् पितामहमातामहप्रभृतिकस्तेनानुलोमी क्रियते, अथैवमपि स न ददाति स्थातुं तर्हि तस्मिन्नददति वक्रयिकमुक्तप्रकारेण अनुलोमयेत् ॥ ३३०३॥
तम्मि वि अदेंते ताहे, छिन्नमछिन्ने वि निंति उउबद्धे । वासासुं ववहारो, उउबद्धे कारणज्जाते ॥ ३३०४॥ तस्मिन्नप्यवक्रयिणि पूर्वप्रकारेण अनुलोम्यमानेऽप्यददति ऋतुबद्धे काले छिन्ने अछिन्ने वा परिपूर्णे अपरिपूर्णे वा अवधौ निर्गच्छन्ति, वर्षाकाले यद्यन्यः कोऽपि साधूनामनुकम्पको न विद्यते यो वसतिं प्रयच्छति तर्हि गत्वा राजकुले व्यवहारः कर्त्तव्यः । न केवलं वर्षासु किन्तु ऋतुबद्धेऽपि काले कारणजाते सति कर्त्तव्यः ॥ ३३०४ ॥
कारणजातमेव पृच्छतिकिं पुण कारणजातं, असिवोमादी उ बाहि होजाहि । एएहि कारणेहिं, अणुलोमऽणुसट्ठि पुव्वं तु ॥ ३३०५॥ किं पुनः कारणजातं यद्वशात् ऋतुबद्धेऽपि काले व्यवहार आश्रीयते ?[उच्यते]
गाथा |३३०१-३३०७
कारणे वक्रयशालादौ वसने विधिः
१३१९ (A)
For Private And Personal Use Only