________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः १३१८ (B)
܀܀܀܀܀܀
www. kobatirth.org
मासच उमासियं वा, न विनिच्छोढेव्वा उ अम्ह नियमेण ।
एवं छिन्नठियाणं, वक्कइतो आगतो होज्जा ॥ ३३०२ ॥
ऋतुबद्धे काले मासं वर्षाकाले चतुर्मासं नियमेन वयं न निष्काशयितव्याः, एवं च्छिन्ने काले शय्यातरेण तथैव प्रतिपन्ने तिष्ठन्ति । तेषां च तथा तिष्ठतां वक्रयिको वक्रयेण ग्राही आगतो भवति ॥ ३३०२ ॥
दिन्ना व भूणएणं, अहवा लोभा सयं पि देज्जाहि । अणुलोमज्जइ ताहे, अदेंते अणुलोमे वइक्कइयं ॥ ३३०३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
शय्यातरो वसतिं दत्त्वा प्रवसितः, पश्चात् पुत्रस्य समीपे वक्रयी समागतः स ब्रूते - यत्र संयतास्तिष्ठन्ति तन्मे भाटकेन प्रयच्छ । [ततश्च] सा वसतिर्दत्ताऽभूत् । केन ? भ्रूणकेन पुत्रेण। अथवा शय्यातरः प्रभूतकभाटकलोभेन स्वयमपि वक्रयिणो दद्यात् दत्त्वा च निष्काशयेत् । तत्र यद्यन्या वसतिर्लभ्यते तर्हि तत्र स्थातव्यम् अन्यवसत्यलाभे स धर्मकथया अनुलोम्यते अनुकूलः क्रियते । अथ स धर्मकथयानुलोभी न भवति तर्हि यस्तस्याभ्यर्हितो
For Private And Personal Use Only
गाथा ३३०१-३३०७ कारणे
वक्रयशालादौ वसने विधिः
१३१८ (B)