________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
यदि नाम वक्रयशालादौ न स्थातव्यं तर्हि सूत्रमधिकृतमफलं, सूत्रे वक्रयेऽपि श्रमणानामवस्थानानुज्ञानात्। सूरिराह-नेदं सूत्रमफलम् यतोऽस्य सूत्रस्य निपातोऽवकाशो वसतेरन्यस्या अभाव बहिरपि निर्गच्छतामशिवादिकं कारणं ततो न व्रजन्ति किन्तु तत्रैव वक्रयशालादौ तिष्ठन्ति ॥ ३३०० ॥
सूत्रम्
सप्तम उद्देशकः १३१८ (A)
तत्र यतनामाहएएहिं कारणेहिं, ठायंताणं इमो विही तत्थ । छिंदंति तत्थ कालं, उउबद्धे वासवासे वा ॥ ३३०१॥
एतैरनन्तरोदितैरन्यत्र वसत्यलाभे बहिरशिवादिलक्षणैः कारणैस्तत्र वक्रयशालादौ तिष्ठतामयं वक्ष्यमाणो विधिः । तामेवाह- तत्र कालं छिन्दन्ति ऋतुबद्धे वर्षावासे वा। इयमत्र भावना-ऋतुबद्धे शय्यातरं प्रति भण्यते-यदि संपूर्ण मासं ददासि, वर्षाकाले भण्यतेयदि चतुरो मासान् ददासि तर्हि तिष्ठामः । अथ न ददासि तर्हि न तिष्ठामः ॥ ३३०१॥
एतदेवाह
गाथा ३३०१-३३०७
कारणे वक्रयशालादौ वसने विधि:
१३१८ (A)
For Private And Personal Use Only