________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१३१४ (B)
सागारिकतया परिहार्यः परिहर्त्तव्यः । अथ तेन पूर्वस्वामिना सागारिकेण सर्वमपि भाटकेन प्रदत्तं ततो न किमपि वदेत्, केवलमवक्रयिको वदेत्- अस्मिन् अस्मिन् अवकाशे श्रमणाः निर्ग्रन्थाः परिवसन्तु, तदा अवक्रायिक: सागारिकः शय्यातर इति परिहार्यः परिहर्त्तव्यः। अथवा द्वावपि वदेयातां यथा- पूर्वस्वामिनोक्तमेतावत्येकदेशे श्रमणाः सन्तु, तावत्यमातः साधून् दृष्ट्वाऽवक्रयिको ब्रूयाद्-एतावति मदीयेऽपि प्रदेशे तिष्ठन्तु। एवं विक्रयसूत्रमपि भावनीयम्। तदा द्वावपि तौ सागारिकौ शय्यातरौ इति परिहार्याविति सूत्रद्वयाक्षरार्थः, सम्प्रति भाष्यविस्तर:
सूत्र २२
गाथा वक्कइयसालठाणे, चउरो मासा य हवंतऽणुग्घाया ।
३२८९-३२९२ दियरातो असिवावण, भिक्खगते भुंजणगिलाणे ॥ ३२९०॥
वक्रयिकशालादौ
वसने वक्रयेण कियत्कालं भाटकप्रदानेन निवृत्ता वाक्रयिकी, सा चासौ शाला च वाक्रयिक- ||
| प्रायश्चित्तादिः शाला, तद्रूपे स्थाने, शालाग्रहणम् उपलक्षणं तेनापद्वारिकास्थाने वा गृहे वा इत्यपि द्रष्टव्यम्, IN यदि तिष्ठन्ति साधवस्तदा तेषां प्रायश्चित्तं चत्वारो मासा अनुद्घाता गुरवो भवन्ति । यतस्तत्र |
१३१४ (B)
For Private And Personal Use Only