________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः
१३१४ (A)
सूत्रम् – सागारिए उवस्सयं विक्किणेजा, से य कइयं वएजा-'इमम्मि य इमम्मि | य ओवासे समणा निग्गंथा परिवसंति से सागारिए परिहारिए। से व नो वएज्जा, कइए वएजा से सागारिए परिहारिए । दो वि ते वएज्जा दो वि सागारिया परिहारिया ॥२२॥ 'सागारिए उवस्सयं' इत्यादि सूत्रद्वयम्। अस्य सम्बन्धमाहउग्गह एव अहिकितो, इमे उ सुत्ता उ उग्गहे चेव । साहम्मिय सागारिय, नाणत्तमिणं दुवेण्हं पि ॥ ३२८९॥
अवग्रहः पूर्वसूत्रेऽधिकृतः, इमे अपि चाधिकृते द्वे अपि सूत्रे अवग्रहविषये | ततोऽवग्रहप्रस्तावादस्य सूत्रद्वयस्यात्रोपन्यासः, नवरं पूर्वसूत्रे साधर्मिक उक्तोऽस्मिन् सागारिकः । शय्यातर इति नानात्वं द्वयोरपि ॥ ३२८९॥ तदेवमुक्तः सम्बन्धः, अनेन सम्बन्धेनायातस्यास्य व्याख्या
सागारिकः शय्यातरः स उपाश्रयमवक्रयेण कियत्कालं भाटकप्रदानेन प्रयुञ्जीत व्यापारयेत्, सच सागारिकोऽवक्रायिकं भाटकेन प्रतिग्राहकं वदेत्- अस्मिन्नस्मिन्नवकाशे श्रमणा निर्ग्रन्थाः परिवसन्ति तस्मादेतत्परिहारेण त्वया भाटकेन ग्रहीतव्यमेवमुक्ते स
सूत्र २२
गाथा ३२८९-३२९२ वक्रयिकशालादौ
वसने प्रायश्चित्तादिः
X
१३१४ (A)
For Private And Personal Use Only