________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम उद्देशकः
१३१५ (A)
इमे दोषाः- सा शाला अपद्वारिका वा पूर्वं संयतानां दत्ता पश्चात् कोऽपि तद्ग्रहणाय रूपकान् ददाति 'ममेमां शालामपद्वारिकां गृहं वा कियत् कालं भाटकेन प्रयच्छत।' तत: स रूपकलोभेन संयतान् निष्काशयेत, दिवा रात्रौ वा उभयत्रापि निष्काशने स्पर्धकपतेराचार्यस्य वा प्रत्येकं प्रायश्चित्तं चतुर्गुरुकम्। रात्रौ निष्काशने श्वापदद्विविधस्तेनतोऽशिवापनं विनाशप्राप्तिरित्यर्थः । अन्यां च वसतिं मार्गयतामप्यलभमानानां जनगर्दा यद्येतेषां शुभं कर्म ततः पूर्वोपाश्रयादपि न निष्काश्येरन् अन्यां वा वसतिं लभेरन्। भिक्खगयत्ति, संयता एकं वसतिपालं मुक्त्वा शेषा भिक्षार्थं गताः पश्चात् स एकाकी वसतिपालो निष्काश्येत । भुंजण त्ति, भोक्तुकामा वा निष्काश्येरन्। तत्र चोभयत्रापि जनगीं। ग्लानो वा कोऽपि वर्तते सोऽकाण्डे निष्काशितः कथं क्रियते? तदेवं शालामधिकृत्योक्तम्॥ ३२९०॥
इदानीमुपलक्षणव्याख्यानसूचितामपद्वारिकां गृहं च वाक्रयिकमधिकृत्योक्तदोषयोजनां साक्षादाह
उव्वरिय गिहं वा वि, वक्कएण पउंजए । पउत्ते तत्थ वाघातो, विणासगरिहा धुवा ॥ ३२९१॥
सूत्र २२
गाथा ३२८९-३२९२ वक्रयिकशालादौ
वसने प्रायश्चित्तादिः
१३१५ (A)
For Private And Personal Use Only