SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३११ (A) वइक्वंते भिन्ने नियट्टे सोऊणं पंच वि पयाई । मिच्छत्त अन्नपंथेण, कड्डणा झामणा जं च ॥ ३२८१॥ व्यतिक्रान्तं नाम जीवितादतिक्रान्तं व्यपगतजीवमिति भावः। भिन्नं श्वादिभिर्विकीर्णं, कुथितमकुथितं वा, तस्मिन् व्यतिक्रान्ते भिन्ने, उपलक्षणमेतत् अभिन्ने वा श्रुते निवृत्त्य यथोक्तविधिना तत् परिष्ठापयेत्। यदि पुनः श्रुत्वा एकमपि पदं गच्छति तदा आज्ञादीनि पञ्चापि पदानि तस्य प्रसजन्ति। न केवलमाज्ञादीनि पञ्च पदानि किन्तु इमान्यपि मिथ्यात्वादीनि प्रसजन्ति। तद्यथा- श्रुत्वा यदि परिष्ठापनाभयादन्यपथेन उन्मार्गेण मार्गेण वा अन्यग्रामाभिमुखं व्रजति तदा न स यथावादकारीति तस्य मिथ्यात्वम् । कड्डणत्ति, गृहिगवाद्याकर्षणे यत् प्रायश्चित्तं तदपि प्राप्नोति। तथा झामणत्ति ध्यामनम् अग्निकायेन यदि तस्य कलेवरस्य क्रियते तदा ध्यामननिष्पन्नमपि तस्य प्रायश्चित्तमापद्यते, यच्चान्यत् तदपि प्राप्नोति। किं तद् ? | इति चेत् , यावन्तः प्राणा सम्मूर्च्छन्ति तावन्तो विराध्यन्ते, यावन्तश्चाऽऽगन्तुकाः प्राणविराधनामाप्नुवन्ति तत्सर्वमपरिष्ठापयन् प्राप्नोति। अथवा श्रुत्वा पदमात्रातिक्रमेऽपि पञ्चापि पदानि | प्राप्नोति। कानि तानि? इत्यत आह-मिथ्यात्वम् अयथावादकारित्वाद्१, अन्यपथेन व्रजति तन्निमित्तं प्रायश्चित्तं २, गृहस्थादिभिराकर्षणे तन्निष्पन्नम् ३, अग्निकायेन दहने तद्धेतुकम् ४, गाथा ३२७७-३२८३ अपरिष्ठापने दोषाः ४१३११ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy