________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३१० (A)
www. kobatirth.org
एएण सुत्तं न गयं सुत्तनिवातो उ पंथ गामे वा ।
एगो व अणेगे वा, हविज्ज वीसुंभिया भिक्खू ॥ ३२७७॥
Acharya Shri Kailassagarsuri Gyanmandir
यदेतत् व्याख्यातमेतेन न सूत्रं गतं किन्तु सामाचारीप्रकाशननिमित्तं सर्वमेतत् व्याख्यातम्। सम्प्रति यदधः प्रतिपादितः सूत्रनिपातः पथि ग्रामे वेति, तदिदानीं व्याख्यायते एको वा अनेके वा भवेयुर्विष्वग्भूताः भिक्षवः । इयमत्र भावना - अत्र चत्वारो भङ्गाः, एकेन साधुना एक: कालगतो दृष्टः १, एकेनाऽनेके २ अनेकैरेकः ३ अनेकैरनेके ४ ॥ ३२७७ ॥
तत्र प्रथमभङ्गमधिकृत्य विधिमाह
एगाणियं तु गामे, दट्टु सोउं विगिंचण तहेव ।
जा दाररुंभणं तू, एसो गामे विही वुत्तो ॥ ३२७८ ॥
ग्रामे एकाकी एकाकिनं कालगतं संविग्नमसंविग्नं वा दृष्ट्वा श्रुत्वा वा विवेचनं परिष्ठापनं तथैव कुर्यात् यथोक्तमनन्तरं तावद्यावत् द्वारे निरोधनम् । एवं शेषेष्वपि भङ्गेषु संविग्नशरीरं वा असंविग्नशरीरं वा प्रागुक्तेन विधिना परिष्ठापयितव्यमेष ग्रामे विधिरुक्तः ॥ ३२७८ ॥
For Private And Personal Use Only
܀܀܀
गाथा
३२७७-३२८३ अपरिष्ठापने दोषाः
| १३१० (A)