________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३०९ (B)
तथाहि- यदि लप्प्यामहे तत आनेष्यामः। अलाभे त्वमेतस्य कलेवरस्य विज्ञायकः। एवं साधारणे उक्ते सोऽपि द्वारस्थो लोकरवभीतो नियमात् मुञ्चति, अमोचने तत्रैव मुक्त्वा वस्त्रोत्पादनाय गच्छति, गत्वा अन्तं प्रान्तं वा वस्त्रमानयति। अलाभे सोऽपि द्वारपालो मृतके पार्श्वस्थे लोकेन हील्यते, ततो मुहूर्तानन्तरं स स्वयमेव मुञ्चति ॥ ३२७५ ॥
अज्ञातविषयेऽपवादमाह
अन्नाए वा वि परलिंग, जयणाए काउं वच्चती । उवयोगट्ठा नाऊणं एस विही असहाये ॥ ३२७६ ॥
अथवा अज्ञाते अपरिचये ग्रामरूपे यतनया कालगतस्य परलिङ्गं कृत्वा व्रजति। कया | यतनया? इत्याह -उपयोगार्थं ज्ञात्वा एतावता कालेन तस्य कालगतस्य | उपयोगलक्षणोऽर्थोऽभूत्, नातः परं परलिङ्गकरणेऽपि कश्चिद्दोष इति ज्ञात्वा एष विधिः | असहाये असहायस्य एकाकिनो द्रष्टव्यः, न तु द्विप्रभृतीनामपीति ॥ ३२७६ ॥ १. मृतकेन हील्यते - मु.॥
गाथा ३२७२-३२७६ एकाकिनः परिष्ठापनाविधिः
१३०९ (B)
For Private And Personal Use Only