SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् सप्तम उद्देशकः १३०९ (A) www. kobatirth.org तस्मिन् कालगते कदाचित् रात्रौ नीयमाने द्वारस्थो द्वारं न दद्यात् । यदि किञ्चित् प्रयच्छ ततो निष्काशं ददामि । क्वचिद् देशे पुनरयमाचारो दिवसेऽपि मृतकं द्वारपालस्य किञ्चिद्दत्वा निष्काश्यते तस्य रुन्धतोऽनुशिष्टिः कर्त्तव्या, आदिशब्दाद्धर्मकथापि । तत्र यदि नेच्छति ततो यद्यन्यः कोऽपि धर्मकथामनुशिष्टिं वा श्रुत्वा ब्रूते ॥ ३२७३ ॥ किं ब्रूते ? इत्याह मुंच दाहामहं मुल्लं, उवेहं तत्थ कुव्वती । अदसादीणि वा देती, असती साहारणं वदे ॥ ३२७४ ॥ जई लब्भामो आणेमो, अलद्धे तं वियाणतो । सो वि लोगरवा भीतो, मुंचते दारपालओ ॥ ३२७५ ॥ Acharya Shri Kailassagarsuri Gyanmandir मुञ्चामुं साधुमहं ते मूल्यं दास्यामि, तत्रोपेक्षां साधुः कुरुते, न तं मूल्यं प्रयच्छन्तं वारयति । अथान्यः कोऽपि नैवं भणति तदा अदशानि वस्त्राणि ददाति तेषामनिच्छायां सदशान्यपि । अथ च वस्त्राणि सदशान्यदशानि वा न सन्ति तदा तेषामभावे साधारणं वदेत् । For Private And Personal Use Only ** गाथा ३२७२-३२७६ एकाकिनः परिष्ठापना विधि: १३०९ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy