________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम उद्देशकः १३०६ (B)|
'अवरुज्झयम्मि अवलोयणा कायव्वा' इति तदन्यग्रामगमनेनाऽशठः [अवलोकनाम्] अकुर्वन् शुध्यति, न दोषभाग् भवति ॥ ३२६५ ॥
छड्डेउं जइ जंती, नायमनाया वा नाए परलिंगं । जइ कुव्वंती गुरुगा, आणादी भिक्खुदिटुंतो ॥ ३२६६ ॥
यदि कालगतं छर्दयित्वा अपरिष्ठाप्य गच्छन्ति तर्हि ते विचारणीयाः। तेन ग्रामेण ते ज्ञाता अज्ञाता वा?, तस्य ग्रामस्य परिचिता अपरिचिता वा? इत्यर्थः । तत्र ज्ञाते ग्रामस्य परिचये सति यदि कालगतस्य परलिङ्गं कुर्वन्ति कृत्वा चाऽपरिष्ठाप्य गच्छन्ति तदा प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः। अथाऽज्ञाते परलिङ्गं कृत्वा अपरिष्ठाप्य गच्छन्ति तदा कालगतस्य परलिङ्गदर्शनतो मिथ्यात्वगमनम्। अत्र च श्रावकभिक्षुदृष्टान्तः। स चाऽऽवश्यकटीकातो भावनीयः ॥ ३२६६॥
अत्र ज्ञातेऽन्ये च दोषाः। तानेवाह
गाथा ३२६५-३२७१ एकाकिनः परिष्ठापनाविधिः
४१३०६ (B)
१. भिच्छु - सं P॥
For Private And Personal Use Only